लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

सप्तमः सर्गः


अथोपयन्त्र सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम्।
स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥१॥

सेनानिवेशान पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः।
भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः॥२॥

सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः।
काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः॥३॥

तावत् प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम्।
वरः स वध्वा सह राजमार्ग प्राप ध्वजच्छायनिवारितोष्णम्॥४॥

ततस्तदालोकनतत्पराणां सोधेषु चामीकरजालवत्सु।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि॥५॥

आलोकमार्ग महसा व्रजन्त्या कयाचिदुद्वेष्टन- १धान्तमाल्यः।
बन्धुं न संभावित एव तावत् करेण रुद्धोऽपि न केशपाशः॥६॥

प्रसाधिकालम्वितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव।
उत्सृष्टलोलागतिरागवाक्षादालक्तकाङ्क पदवीं ततान॥७॥

विलोचनं दक्षिणमञ्जनेन संभाव्य तदवञ्चितवामनेत्रा॥
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्तो॥८॥

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम्।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥९॥

अर्धाचिता२ सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती।
कस्याश्चिदासोद् रसना तदानीमङ्गुष्ठमूलापतसूत्रशेषा॥१०॥
----------------------------
१. च म.
२. ञ्चिता म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book